Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

Bihar Board Class 8 Sanskrit Book Solutions Amrita Bhag 3 Chapter 7 प्राचीनाः विश्वविद्यालयः Text Book Questions and Answers, Summary.

BSEB Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

Bihar Board Class 8 Sanskrit प्राचीनाः विश्वविद्यालयः Text Book Questions and Answers

बहूनां शास्त्राणां ज्ञानविषयाणां च यत्र शिक्षा दीयते तस्यैव अभिधानं विश्वविद्यालय इति । तत्र सुयोग्याः अध्यापकाः निष्पक्षभावेन छात्रान् पाठयन्ति । छात्राश्च परीक्षानन्तरमेव तत्र प्रवेशं लभन्ते । विश्वविद्यालयाः ज्ञानकेन्द्राणि भवन्ति ज्ञानस्य विकासोऽपि तत्र निरन्तरं जायते ।

अर्थ-अनेक शास्त्रों का और ज्ञानविषयों का जहाँ शिक्षा दी जाती है उसी का नाम विश्वविद्यालय है । वहाँ सुयोग्य शिक्षक लोग निष्पक्ष भाव से – छात्रों को पढ़ाते हैं। छात्र प्रवेश परीक्षा के बाद ही वहाँ प्रवेश पाते हैं। विश्वविद्यालय ज्ञान के केन्द्र होते हैं । ज्ञान का विकास भी वहाँ हमेशा होता है।

प्राचीने भारते तक्षशिलायां प्रसिद्धः विश्वविद्यालयः षष्ठशतके ईस्वीपूर्वमेव अवर्तत । बौद्धसाहित्ये तक्षशिलायाः भूयो भूयः उल्लेखो वर्तते । अयं विश्वविद्यालयः गान्धारदेशे आसीत्। तस्य देशस्य तक्षशिलायां राजधानी बभूव । सम्प्रति तक्षशिलाया: भग्नावशेषाः पाकिस्तानदेशे रावलपिण्डीसमीपे सन्ति। अत्र धनुर्वेदस्य, आयुर्वेदस्य तथा अन्यासां विद्यानामपि शिक्षणम् आसीत् । अत्र बुद्धकालिकः वैद्यः जीवकः, वैयाकरण: पाणिनिः, मौर्यराज्यस्य संस्थापकः चन्द्रगुप्तः, कूटनीतिज्ञः चाणक्यः इत्यादयः प्रसिद्धः छात्राः अधीतवन्तः।

अर्थ – प्राचीन भारत में तक्षशिला में प्रसिद्ध विश्वविद्यालय छ: सौ ई. पूर्व . ही स्थापित हुआ था । बौद्ध साहित्य में तक्षशिला का बार-बार उल्लेख है। यह विश्वविद्यालय गान्धार देश में था। उस देश का तक्षशिला में राजधानी था। आजकल तक्षशिला का भग्नावशेष पाकिस्तान देश में रावलपिण्डी के समीप है। यहाँ धनुष विद्या, आयुर्वेद विद्या, तथा अन्य विद्याओं का शिक्षण दिया जाता था । यहाँ बुद्धकालीन वैद्य जीवक, वैयाकरण पाणिनी, मौर्य राज्य के संस्थापक चन्द्रगुप्त, कूटनीति को जाननेवाला चाणक्य इत्यादि प्रसिद्ध छात्रगण अध्ययन किये थे।

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

नालन्दा विश्वविद्यालयः बिहारे एव आसीत् । अस्य भग्नावशेषाः विशालक्षेत्रे अवस्थिताः सन्ति । कुमारगुप्तेन पञ्चमशतके ख्रीष्टाब्दे अस्य स्थापना कृता । प्रायः सप्तशतानि वर्षाणि अयम् अवस्थितः । बर्बराणाम् आक्रमणेन अस्य विध्वंसी जातः। अत्रानेके चीनयात्रिका: बहूनि वर्षाणि अधीतवन्तः । तेषु हुएनसांगः प्रधानः । तेन विश्वविद्यालयस्य विस्तृतं विवरणं दत्तम् । अत्र दशसहस्राणि छात्रा: एकसहस्रमध्यापकाः निवसन्ति । स्म । यद्यपि बौद्धधर्म अस्य अभिनिवेशः आसीत् किन्तु बहूनां शास्त्राणामपि वर्णनं स करोति । तानि अत्र पाठ्यन्ते स्म । अस्य विश्वविद्यालयस्य त्रयः महान्तः पुस्तकालयाः सप्तसु तलेषु अविद्यन्त । भग्नावशेषेण विश्वविद्यालयस्य विशालता ज्ञायते।

अर्थनालन्दा विश्वविद्यालय बिहार में ही था। इसके भग्नावशेष (खण्डहर) बहुत बड़े भूभाग में अवस्थित है। कुमार गुप्त के द्वारा पाँचवीं शताब्दी में इसकी स्थापना की गई थी। लगभग सात सौ वर्षों तक यह कायम रहा । क्रूर आक्रमणकारियों के आक्रमण से इसका नाश कर दिया गया । यहाँ अनेक चीन यात्री बहुत वर्षों तक अध्ययन किये थे । उनमें से हुएनसांग प्रधान है। उसके द्वारा विश्वविद्यालय का विस्तारपूर्वक विवरण दिया गया है। यहाँ दस हजार छात्र और एक हजार अध्यापक रहते थे। जबकि बौद्ध धर्म में इसका लगाव था। अनेक शास्त्रों का वर्णन भी यहाँ किया गया था जिसको वहाँ पढ़ाया जाता था। इस विश्वविद्यालय का तीन बहुत बड़ा पुस्तकालय सात

मंजिल पर मौजूद था। खण्डहर से विश्वविद्यालय की विशालता का पता चलता है।

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

बिहारराज्ये एव पालवंशीयेन राज्ञा धर्मपालेन अष्टम-शतके संस्थापितः विक्रमशिला- विश्वविद्यालयः अपि अनेक शास्त्राणां शिक्षणाय प्रसिद्धः आसीत् । अत्रापि नालन्दायामिव चीनतिब्बतादि-देशेभ्यः आगताः छात्राः अधीयते स्म । केचन अध्यापका अपि उभाभ्यां विद्यापीठाभ्यां तिब्बते चीने वा निमन्त्रिता: गच्छन्ति स्म । अस्यापि विक्रमशिलाविश्वविद्यालयस्य विनाश: नालन्दया सार्धं बबरैः कृतः धनलुण्ठनाशया । उभौ विश्वविद्यालयौ बिहारस्य गौरवभूतौ स्तः ।

अर्थ-बिहार राज्य में ही पालवंशीय राजा धर्मपाल के द्वारा स्थापित विक्रमशिला विश्वविद्यालय भी अनेक शास्त्रों के शिक्षण के लिए प्रसिद्ध था । यहाँ भी नालन्दा की तरह ही चीन, तिब्बत आदि देशों से आकर छात्र अध्ययन करते थे। कुछ अध्यापक भी दोनों विद्यापीठों (विश्वविद्यालयों) से तिब्बत और चीन निमंत्रित होकर गये थे। इस विक्रमशिला विश्वविद्यालय का भी विनाश नालन्दा के साथ क्रूरों के द्वारा धन लूटने की आशा से कर दिया गया। दोनों विश्वविद्यालय बिहार के गौरवपूर्ण हैं।

शब्दार्थ

बहूनाम = बहुत का, अनेक का । शास्त्राणाम् = शास्त्रों का । ज्ञानविषयाणाम् = ज्ञान के विषयों का । दीयते = दिया जाता है। तस्यैव (तस्य + एव) = उसी का । अभिधानम् = नाम । निष्पक्षभावेन = निष्पक्ष भाव से, बिना किसी का पक्ष लिये । परीक्षानन्तरमेव = परीक्षा के बाद ही। लभन्ते = पाते हैं। विकासोऽपि = विकास भी । निरन्तरम् = हमेशा । जायते = होता है। प्राचीने = प्राचीन में, पुराने में ।

तक्षशिलायाम् = तक्षशिला में । षष्ठशतके = छठी शताब्दी में । ईस्वीपूर्वमेव = ईस्वी पूर्व ही । अवर्तत = हुआ था। बौद्धसाहित्ये = बौद्ध साहित्य में । तक्षशिलायाः = तक्षशिला का/की । भूयः भूयः = बार-बार । गान्धारदेशे = गान्धार देश में (वर्तमान पाकिस्तान में)। बभूव = हुआ । सम्प्रति = इस समय (साम्प्रतम् = आजकल) । भग्नावशेष: = खण्डहर । रावलपिण्डीसमीपे = रावलपिण्डी के समीप में । अन्यासाम् = दूसरी का/के/की । विद्यानामपि (विद्यानाम् + अपि) = विद्याओं का, विषयों का भी । बुद्धकालिकः = बुद्धकालीन, बुद्ध के समय वाला ।

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

वैयाकरणः = व्याकरण के विद्वान । मौर्यराज्यस्य = मौर्य राज्य का, के, की । कूटनीतिज्ञः = कूटनीति जाननेवाला । इत्यादयः = इत्यादि । अधीतवन्तः = अध्ययन करते थे। अवस्थिता = स्थित, रही हुई । पञ्चमशतके = पाँचवीं शताब्दी में । ख्र ष्टाब्दे = ईस्वी में । सप्तशतानि = सात सौ । वर्षाणि = वर्ष (बहुवचन)। बर्बराणाम् = बर्बरों के, क्रूरों के। विध्वंसः = नाश । अत्रानेके = यहाँ अनेक । चीनयात्रिकाः = चीनी यात्री । दत्तम् = दिया गया । दशसहस्राणि = दस हजार । एकसहस्रमध्यापकाः = एक हजार अध्यापक ।

निवसन्ति स्म = रहते थे। अभिनिवेशः = लगाव, ज्ञान । शास्त्राणामपि = शास्त्रों का भी। तानि = वे (नपुंसक लिङ्ग)। पाठ्यन्ते = पढ़ाये जाते हैं। त्रयः = तीन (पुंल्लिङ्ग) तिम्रः (स्त्री.) तीन, त्रीणि (नपुं.) तीन । अविद्यन्त = मौजूद थे। विशालता = बड़ा आकार का भाव, भव्यता । ज्ञायते = जाना जाता है। अत्रापि = यहाँ भी । नालन्दायाम् = नालंदा में । आगताः = आये हुए । अधीयते स्म = अध्ययन करते थे। केचन = कोई, कुछ (पुंल्लिङ्ग)। उभाभ्याम् = दोनों से (अपादान कारक) । विद्यापीठाभ्याम् = विद्यापीठों से (अपादान कारक) । अस्यापि = इसका भी । सार्धम् = साथ । धनलुण्ठनाशया (धनलुण्ठन + आशया) = धन को लूटने की आशा से।

व्याकरणम्

सन्धि-विच्छेद

तस्यैव = तस्य + एव (वृद्धि-सन्धि)। छात्राश्च = छात्राः + च (विसर्ग-सन्धि) परीक्षानन्तरमेव = परीक्षा + अनन्तरम् + एव (दीर्घ-सन्धि)। विकासोऽपि = विकासः + अपि (विसर्ग-सन्धि) । ईस्वीपूर्वमेव = ईस्वीपूर्वम् + एव । भग्नावशेषाः = भग्न + अवशेषाः (दीर्घ-सन्धि) । विद्यानामपि = विद्यानाम् + अपि । इत्यादयः = इति + आदयः (यण-सन्धि) । अत्रानेके = अत्र + अनेके (दीर्घ-सन्धि)। शास्त्राणामपि = शास्त्राणाम् + अपि । नालन्दायामिव = नालन्दायाम् + इव । अत्रापि = अत्र + अपि (दीर्घ-सन्धि)। अस्यापि = अस्या + अपि (दीर्घ-सन्धि)। यद्यपि = यदि + अपि (यण-सन्धि)।

प्रकृति-प्रत्यय-विभागः

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीना विश्वविद्यालय 1

अभ्यास

मौखिक

प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुत
उत्तरम्-
शास्त्राणाम्, तस्यैव, निष्पक्षभावेन, परीक्षानन्तरमेव, दशसहस्राणि, भग्नावशेषेण, धनलुण्ठनाशया, गौरवभूतौ ।

प्रश्न 2.
अधोलिखितानां पदानाम् अर्थं वदत
उत्तरम्-

  1. इति = ऐसा ।
  2. यत्र = जहाँ ।
  3. जायते = होता है ।
  4. भूयोभूयः = बार-बार ।
  5. अधीतवन्तः = अध्ययन करते रहे ।
  6. भग्नावशेषाः = खण्डहरों ।
  7. पञ्चमशतके = पाँचवीं सदी में ।
  8. ख्रीष्टाब्दे = ईस्वी सन् में ।
  9. बबरैः = क्रूरों के द्वारा ।
  10. उभौ = दोनों।।

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

प्रश्न 3.
निम्नलिखितानां प्रश्नानाम् उत्तरम् एकेन पदेन लिखत
(क) तक्षशिला विश्वविद्यालयः कस्मिन देशे आसीत् ?
उत्तरम्-
गान्धार देशे।

(ख) सम्प्रति तक्षशिलायाः भग्नावशेषाः कुत्र सन्ति ?
उत्तरम्-
रालवपिण्डी।

(ग) मौर्य राज्यस्य संस्थापकः कः आसीत् ?
उत्तरम्-
चन्द्रगुप्तः।

(घ) नालन्दा विश्व-विद्यालयस्य भग्नावशेषाः कुत्र सन्ति ?
उत्तरम्-
नालन्दायाम् ।

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

(ङ) केन आक्रमणेन नालन्दा विश्वविद्यालयस्य विध्वंसो जाः ?
उत्तरम्-
बबरः।

प्रश्न 4.
कोष्ठात् शब्दं चित्वा रिक्तस्थानाम् पूरयत :

  1. षष्ठशतके ईस्वीपूर्वे ………….. विश्वविद्यालयः अवर्तत । (नालन्दा, तक्षशिला)
  2. नालन्दा विश्वविद्यालयः ……….. एव आसीत् । (बिहारे, उत्तरप्रदेशे)
  3. कुमारगुप्तः ……….. विश्वविद्यालयस्य स्थापनां कृतवान् । (विक्रमशिला, नालन्दा)
  4. हुएनसांग ………. देशस्य आसीत्। (अमेरिका, चीन)
  5. धर्मपाल: ……… वंशीयः राजा आसीत्। (पाल, चोल)

उत्तरम्-

  1. तक्षशिला
  2. बिहारे
  3. नालंदा
  4. चीन
  5. पाल।

प्रश्न 5.
निम्नलिखितानां शब्दानां प्रयोगेण संस्कृते वाक्यानि रचयत अभिधानम्, तक्षशिला, चन्द्रगुप्तः, हुएनसांगः, अध्यापकः ।
उत्तरम्-

  1. अभिधानम् = बिहारे पुरा नालन्दा विश्वविद्यालयः अभिधनं शिक्षा केन्द्रम् आसीत्।
  2. तक्षशिला = तक्षशिला विश्वविद्यालयः गान्धार देशे आसीत् ।
  3. चन्द्रगुप्तः = चन्द्रगुप्त मौर्यवंशस्य संस्थापकाः आसीत् ।
  4. हुएनसांग = हुएनसांग चीन देशस्य आसीत् ।
  5. अध्यापकः = अध्यापकः छात्रान् पाठयति ।

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

प्रश्न 6.
मेलनं कुरुत

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीना विश्वविद्यालय 2
उत्तरम्-
(क) – (2)
(ख) – (4)
(ग) – (1)
(घ) – (5)
(ङ) – (3)

प्रश्न 7.
रिक्तस्थानानि पूरयत
उत्तरम्-
Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीना विश्वविद्यालय 3

प्रश्न 8.
अधोलिखितानां पदानां सन्धि विच्छेदं वा कुरुत

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीना विश्वविद्यालय 4

प्रश्न 9.
प्रकृति-प्रत्यय विभागं कुरुत

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीना विश्वविद्यालय 5

प्रश्न 10.
‘सत्यम्’ अथवा ‘असत्यम्’ लिखत :

यथा –
विश्वविद्यालयः ज्ञानकेन्द्राणि भवन्ति ।
“सत्यम्”
प्रश्नोत्तरम् :

(क) तक्षशिलाविश्वविद्यालयः गान्धारदेशे आसीत् ।
उत्तरम्-
“सत्यम्”

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

(ख) मौर्यराजस्य संस्थापकः धर्मपालः आसीत् ।
उत्तरम्-
“असत्यम्”

(ग) नालन्दा विश्वविद्यालयः पाकिस्तान देशे आसीत् ।।
उत्तरम्-
असत्यम्

(घ) विक्रमशिला विश्वविद्यालयः धर्मपालेन संस्थापितः।
उत्तरम्-
“सत्यम्”

(ङ) नालन्दा विश्वविद्यालयस्य बर्बराणाम् आक्रमणेन विध्वंसो नातः।
उत्तरम्-
“सत्यम्”

प्रश्न 11.
उदाहरणानुसारेण विभक्ति वचन-निर्णयं कुरुत

यथा-
गृहेषु विभक्तिः वचनम्। – सप्तमी – बहुवचनम्
प्रश्नोत्तर :

  1. शास्त्राणाम् – षष्ठी – बहुवचनम्
  2. छात्रान् – द्वितीया – बहुवचनम्
  3. ज्ञानस्य – षष्ठी – एकवचनम्
  4. भारते – सप्तमी – एकवचनम्
  5. देशस्य – षष्ठी – एकवचनम्
  6. वर्षाणि – प्रथमा – बहुवचनम्
  7. आक्रमणेन – तृतीया – एकवचनम्
  8. बर्बराणाम् – षष्ठी – बहुवचनम्

Bihar Board Class 8 Sanskrit Solutions Chapter 7 प्राचीनाः विश्वविद्यालयः

प्रश्न 12.
हिन्दी भाषायाम् अनुवदत

  1. तक्षशिला विश्वविद्यालयः गान्धारदेशे आसीत् ।
  2. नालन्दा विश्वविद्यालयस्य कुमारगुप्तेन स्थापना कृता ।।
  3. अत्र सुयोग्याः अध्यापकाः छात्रान् पाठयन्ति ।
  4. तक्षशिलाविश्वविद्यालयः षष्ठशतके ईस्वीपूर्वमेव अवर्तत ।
  5. धर्मपाल: पालवंशीयः राजा आसीत् ।

उत्तरम्-

  1. तक्षशिला विश्वविद्यालय गान्धार देश में था।
  2. नालन्दा विश्वविद्यालय का कुमार गुप्त के द्वारा स्थापना की गयी।
  3. यहाँ सुयोग्य अध्यापक लोग छात्रों को पढ़ाते हैं।
  4. तक्षशिला विश्वविद्यालय छठी शताब्दी ईसा पूर्व में ही स्थापित किया गया ।
  5. धर्मपाल पालवंशीय राजा थे।