BSEB Bihar Board 12th Sanskrit Important Questions व्याख्या are the best resource for students which helps in revision.
Bihar Board 12th Sanskrit Important Questions व्याख्या
निम्नलिखित पद्यानां व्याख्या संस्कृत भाषायां लिखत।
प्रश्न 1.
परगुणपरमाणून पर्वतीकृत्य नित्यम्,
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः
उत्तर:
व्याख्या – अस्मिन् गद्यांशे उत्तम परोपकारिणां सूक्ष्मलक्षणं दर्शितं विद्यते। परोपकारिषु उत्तमाः ते एव सन्ति ये सदा परेषां परमाणु सदृशान् अतिलघु गुणानपि पर्वत सदृशान् मत्वा आत्मनः हृदयेषु प्रसन्नाः भवन्ति तथा च अहर्निशं मनसा वाचा कर्मणा च निर्लाभेन भावेन परोपकाररताः विद्यन्ते। परमेतादृशाः सज्जनाः संसारे अतिविरलाः एव इत्याशयः।
प्रश्न 2.
श्रोतं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न न तु कङ्कणेन।
विभाति कायः करुणापराणां परोपकारैर्म न तु चन्दनेन।
उत्तर:
व्याख्या – पद्यमिदं वाल्मीकीय-रामायणेस्य किष्किन्धाकाण्डात् उद्धृतं विद्यते। अत्र रामः वर्षाकालिकमेघान् वर्णयति। मेघः गजराजः इव दृश्यते। आकाशे विद्युतल्लेखा मेघरूपिणः गजस्यउपरि पताका इव शोभते, वकपंक्तिः माला इव प्रतिभाति। पुनः पर्वतराजस्य शृङ्ग महदाकारः गजः इव प्रतीयते। मेघानां गर्जनं युद्धस्थले मदमत्तानां गजराजानां गर्जितम् इव श्रूयते। इत्थं कविना मेघा उपभीयन्ते गजेन्द्रैः।
प्रश्न 3.
“भूमेरावरणं वायुर्जलं चैव वनस्पतिः।
जगदाधार रूपं तत्पर्यावरणमिष्यते॥”
उत्तर:
व्याख्या – पर्यावरणस्य महत्त्वं वर्तमानकाले सर्वत्र स्वीक्रियते एतस्य संरक्षणम् सर्वेषां कर्तव्यमेव। पर्यावरणं जगतः आधाररूपम् विद्यते। पृथ्वी व्याप्य यत् किमपि वस्तु लोकस्य जीवनस्य धारक भवति तत् सर्व पर्यावरणशब्देन गृह्यते। अतः वायुः, जलम्, वनस्पतिः, वृक्षादिपादपाः सर्वाणि पर्यावरणस्य अनानि उच्यन्ते। एतेषाम् सर्वषाम् उपयोगः एकदृशं करणीयम् येन प्रदूषणं न सम्भवति। वनस्पतीनामणि रक्षा करणीया। वृक्षारोपणमपि आवश्यकम् यतोहि ते फलं ददति, वायुमण्डलं च शुद्धं विदधति।
प्रश्न 4.
“जनिता चोपनेता च यस्तु विद्यां प्रयच्छति।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृता॥”
उत्तर:
व्याख्या – इदम् पद्यं श्रेयस्करीस्वस्थितिः’ इति पाठात् उद्धृतम्। मुनिः शालकायनः यदा . युवतीरूपाम् मूषिकाम् पुनः मूषिकाम् कर्तुम् स्वभार्याम् अकधयत् तदा सा उक्तवती यतं मूषिकां युवती कृत्वा भवान् तस्याः पिता सञ्जातः। अतः एषा कन्या युवतीरूपेणैव त्वया रक्षणीया। कथ्यते यत् पञ्चजनाः पितरः भवन्ति, पितृतुल्याः कल्याण कुर्वन्ति। एकः जनकः, द्वितीयः पालकः, तृतीयः विद्यादाता शिक्षकः, चतुर्थः अन्नदाता, पञ्चमः च रक्षकः। अतः सा मुनिम् वारयति स्वयं च युवतीरूपाम तां पालयितुं प्रतिजानीते।
प्रश्न 5.
विद्युत्पताका: सबलाकमालाः शैलेन्द्रकूटाकृतिसं निकशाः।
गर्जन्ति मेघाः समुदीर्णनादामता गजेन्द्रा इव संयुगस्थारौ॥
उत्तर:
व्याख्या – पद्यमिदं भर्तृहरि नीतिशतकात् शरीराणि परोपकारेण एवं शोभन्ते। तेषां अलंकरणाय कुण्डलाद्यलङ्काराणाम् आवश्यकता न विद्यते। तेषां कर्णयोः साफल्यं सतां श्रवणेनैव भवति, नहि कुण्डलादिभिः आभूषणैः। दानमेव तषां हस्तानाम् अलङ्करणम्, नहि चन्दनादिकम्। वस्तुतः परोपकारः एव भूषणं विद्यते।
प्रश्न 6.
सुलभेष्वर्थलाभेषु पर सम्वेदने जन:
क इदं पुश्करं कुर्मादिदानीं शिविना विना।”
उत्तर:
व्याख्या – इदं पदं ‘चाणक्यचन्दनदासयोः संवादः’ इत्यस्माद् उद्धृतम्। चाणक्यः चन्दनदासं नन्दवंशीयमन्त्रिणः राक्षसस्य विषये पृच्छति। स वाच्छति यत् राक्षसः चन्द्रगुप्तस्यापि मन्त्री भवतु। परन्तु राक्षस: नैव तत्पदं स्वीकरोति। चन्दनदासः राक्षसं परिरक्षति। चाणक्यः चन्दनदासम् आहूय राक्षसस्य विषये पृच्छति। पुनः चाणक्यः चन्दनदासं कथयति ‘राजा त्वाम् नहि मर्षयिष्यति अपितु तीक्ष्णदण्डं दास्यति’। चन्दनदासः मित्राय राक्षसाय प्राणान् अपि त्युक्तुम् उद्यतेः अस्ति। स राक्षसस्य विषये किमपि न कथयति।
चाणक्यः चन्दनदासं प्रति क्रोधं दर्शयति परन्तु मनसा तं प्रशंसति। अस्मिन् पद्ये सः चन्दनदासस्य तुलनां त्यागपरायणेन शिविना करोति। स मनसि कथयति यत् यद्यपि राक्षसस्य प्रत्यर्पणेन द्रव्यस्य प्राप्तिः निश्चिता तथापि चन्दनदासः लोभसंवरणं कृत्वा आत्मोत्सर्ग कर्तुं सन्नद्धः इति संदृश्य चाणक्यः चन्दनदासं मनसा नमस्करोति।
प्रश्न 7.
भवन्ति नम्रास्तरवः फलोद्गमैः नबाम्बुभिर्दूरविलम्बिनो घनाः।
अनुद्धता: सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥
उत्तर:
व्याख्या – इदं पद्यं भर्तृहरिरचितात् नीतिशतकात् उद्धृतम्। अस्मिन् पद्ये परोपकारिणः स्वभावस्य वर्णनम् विद्यते। ये परोपकारम् कुर्वन्ति ते धनम् प्राप्य अपि तरवः इव नम्रा भवन्ति यथा वृक्षा फलभारेण नमन्ति। पुनः परोपकारी जनः जलयुक्त मेघः इव भवति, यः जलभारेण अन्तरिक्षात् अधः आगच्छति। परोपकारी वस्तुतः सज्जनः भवति। ऐश्वर्यम् प्राप्त अपि गर्वं न करोति। सदा विनयी भवति। आचरणे शिष्टः भवति। अस्य पद्यस्य इयमेव शिक्षा।
प्रश्न 8.
पापन्निवारयति योजयते हिताय, गुह्यं निगृहति गुणान्प्रकटीकरोति।
आपाद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥
उत्तर:
व्याख्या – ‘परोपकारः’ इति पाठात् उद्धृतं पद्यमितम्।
अस्मिन् पद्ये कवि सन्नितरय लक्षणं स्पष्टीकरोति। सन्मित्रं स्वमित्रं पापकर्मभ्यः वारयति, हितकारकेभ्यः कायेभ्यः च प्रेरयति। यदि सन्मित्रं मित्रस्य कामपि त्रुटि पश्यति तहि तां निगृहति। स्वमित्रस्य गुणान् एव पचारयति। यदि कदापि आवश्यकता भवति तहिं स्वमित्राय द्रव्यमपि ददाति। सन्मित्रं सर्वदैव आपत्तिषु स्वमित्रं रक्षति, तं न त्यजति। सन्नित्रस्य एतानि वैशिष्ट्यानि सन्ति।
प्रश्न 9.
भूयिष्ठं कपिलानि गोकुलघनान्यक्षेत्रवत्यो दिशो।
नि: सन्दिग्धमिदं तपोवनमयं घूमो हि बह्वाश्रयः॥
उत्तर:
व्याख्या – पद्यम् इदं भासस्य स्वप्नवासवदत्तस्य प्रथमाङ्कात् उद्धृतं विद्यते। अस्मिन् पद्ये ब्रह्मचारी तपोवनस्य वैशिष्ट्यं वर्णयति।
तपोवने वहवः कपिलवर्णानांगवां समूहाः यत्र तत्र विचरन्ति। सर्वासु दिक्षु क्षेत्राणि अकृष्टानि दृश्यन्ते। मुनय, यज्ञकृत्येषु संलग्ना विद्यन्ते यतोहि अनेकेभ्यः स्थलेभ्यः धूमः उद्गच्छति। अतः ब्रह्मचारी मन्यते यत् निश्चितमेव इदं स्थलं तपोवनम्।
ब्रह्मचारी तत्र स्थातुं वाञ्छिति तपोवनं दृष्ट्वा सः चिन्तारहितो जायते।
प्रश्न 10.
धारानिपातैरभिहन्यमानाः कदम्बशाखासु बिलम्बमानाः।
क्षणार्जितं पुष्परसावगाढ़ शनैर्मदं षट्चरणास्त्यजन्ति।
उत्तर:
व्याख्या – इदं पद्यं वाल्मीकीय-रामायणस्य वर्षावर्णनात् उद्धृतम् अस्ति। अत्र रामः वर्षायाः ऋतो: वर्णनं करोति। भ्रमराः पुष्परसैः मदयुक्ताः अधुना वर्षासु इतस्ततः भ्रमन्ति। जलधाराभिः कदम्बशाखां पुनः पुनः ताडिता भवन्ति। कदम्बपुष्पाणां रसेन मदमत्ता भ्रमराः वर्षायाः आघातं सोढुम् अक्षमा जायन्ते। मदरहिताः ते इतस्ततः भ्रमन्ति।
प्रश्न 11.
विश्रब्धं हरिणाश्चरन्त्यचकिता देशागत प्रत्ययाः।
वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः।
उत्तर:
व्याख्या – इदं पद्यं भासरचितात् वासवदत्तनामकनाटकात् उद्धृतम् विद्यते। अस्मिन् पद्ये ब्रह्मचारी अस्मिन् पद्ये ब्रह्मचारी तपोबनवर्णनं करोति। सः विश्रामाय स्थानम् वाञ्छति। सम्मुखं शान्तं प्रदेश दृष्ट्वा सः अनुमानं करोति यद् निश्चितमिदं स्थानं तपोवनमेव। यतः अत्र हरिणा अपरिचितान् दृष्ट्वा अपि भयं न अनुभवन्ति, दूरं न गच्छन्ति। हरिणा जानन्ति यत् ते तपोवने सन्ति, तत्र न कोऽपि तान् पीडयिष्यति। पुनः ब्रह्मचारी पश्यति यत् पादपाः फलैः पुष्पैः च समृद्धाः सन्ति। अन्येषु स्थलेषु जनाः फलानि पुष्पाणि च त्रोटयित्वा खादन्ति नयन्ति च। परन्तु अत्र सर्व पादपाः संरक्षिताः सन्ति ।
प्रश्न 12.
तन्मे मनः शिवसङ्कल्पमस्तु।
उत्तर:
व्याख्या – मनः एवं प्रधानः। मनः कल्याणकारः सङ्कल्पेन युक्तः भवेत् इति कामना क्रियते। मन एव मनुस्याणां सत्कर्मणि दुष्कर्मणि च प्रवृतो हेतुः भवति। अतः मनः कल्याणयुक्तं भवेत्।
प्रश्न 13.
यस्मान्न ऋते किञ्चन कर्म क्रियते।
उत्तर:
व्याख्या – यस्मात् ऋते येना बिना न किञ्चन कर्म क्रियते असंभवम् भवेदिति एतस्मात ज्योतिः धृतिः प्रज्ञानं विशेषज्ञान जनकम् आवश्यकम्। ज्योतिषा मनः प्रकाशरूपम् भवति धृतिना साहसं धैर्य अभिवृद्धियति।
प्रश्न 14.
महाजनः स्मेरमुखो भविष्यति।
उत्तर:
व्याख्या – गजराजस्त्वत्कृते उपयुक्त वाहनमस्ति। शिवस्य वाहनं वृद्धो वृषभः अस्ति। अतो विवाहानन्तरं यदा शिवस्य वृद्धं वृषभमारुह्य त्वं तेन सह गमिष्यसि तदा सभ्याः जनारत्वाम अवलोक्य हसिष्यन्ति। एषः ते महान् उपहासो भविष्यति।।
प्रश्न 15.
प्रजानामेव भूत्यर्थ स ताम्यो बलिमग्रहीत्।
उत्तर:
व्याख्या-राजा दिलीप प्रजानां कल्याणार्थम् करं गृहणाति एव ताम्यो बलिम् अग्रहीत। हे सूर्यस्य किरणें पृथ्वींयामं जलं प्रदातुम् पुनः सः सहस्र गुणाः वर्षां रूपेन समस्त पृथिवीम् हरितवान्। उत्सृष्टम अर्थात् जिस प्रकार सूर्य की किरणें पृथ्वी के जल को खींचकर पुनः उन्हें हजार गुना वर्षा के रूप में प्रदान कर धरा को हरा-भरा बना देती है। उसी प्रकार राजा दिलीप भी प्रजा के लिये गये ‘कर’ (आय का छठवाँ भाग) को प्रजा के ही हित में लगा देते हैं।
प्रश्न 16.
फलानुमेयाः प्रारम्भाः।
उत्तर:
व्याख्या – राजा दिलीपः स्व संवृतमन्त्रस्य गुप्तभावस्य गूढाकारेऽितस्व च तस्य प्रारम्भा संस्कारः प्राक्तना पूर्वजन्मभवाः शुभाशुभकर्मवासना संस्कारा ईव फलानुमेया स्पष्टा भवति। अर्थात् राजा दिलीप अपने आचार-विचार तथा हृदय की बातों को किसी के समक्ष प्रकट होने नहीं देते थे। जिस प्रकार किसी व्यक्ति की जीवन शैली को देखकर उसके पूर्व जन्म के संस्कारों का पता चलता है। उसी प्रकार राजा दिलीप के मन की बात भी कार्य के समाप्त हो चुकने