Bihar Board 12th Sanskrit संस्कृतभाषायाम् निबन्धः Important Questions

BSEB Bihar Board 12th Sanskrit Important Questions संस्कृतभाषायाम् निबन्धः  are the best resource for students which helps in revision.

Bihar Board 12th Sanskrit संस्कृतभाषायाम् निबन्धः Important Questions

1. पर्यावरणम् आधृत्य

पर्यावरणप्रक्रमे मानवहस्तक्षेपकारणात् समस्याः उत्पन्नाः। समस्याः अधोलिखिताः सन्ति

  1. प्रदूषितम् वायुमण्डलम्,
  2. संक्रमितं प्रदूषितं वा जलसंसाधनम्,
  3. तीव्रगत्या वनक्षेत्रस्य संकोचः,
  4. संकटग्रस्तः वन्यजीवः,
  5. उद्योगस्थापनकृते कृषि-क्षेत्रस्य अधिग्रहम्,
  6. खनिभांडारस्य शीघ्रतया समापनम्,
  7. तापवृद्धिः,
  8. जलवायुपरिवर्तनम्,
  9. अम्लवृष्टिः,
  10. ओजोनस्तरस्य क्षरणम्।

इदम् सत्यमस्ति यत् पर्यावरणस्य संरक्षणं न केवलं सर्वकाराणां दायित्वमपितु सर्वेषां नागरिकाणां विद्यते। सामूहिकप्रयासेन पर्यावरणस्य संरक्षणं सम्भवति। एतत्कृते सम्पूर्णभूमिभागस्य 33 प्रतिशतं वनम् आवश्यकम्। अतः वृक्षारोपणकार्यक्रमस्य प्रोत्साहनं विधेयम्।

चिपको नाम आन्दोलनसदृशम् अपरमान्दोलनं संचालितव्यम्-वन खनिजसम्पदायाः अतिदोहनं वर्जनीयम्, वन्यजीवं प्रति क्रूरव्यवहारः त्यक्तव्यः अपशिष्टपदार्थस्य विसर्जनार्थ समुचितप्रबन्धस्यचमहती आवश्यकता अनुभूयते। भारतसदृशे विकासशीलदेशे अपशिष्टिनिस्तारणस्य समुचित व्यवस्था करणीया। जनसंख्यावृद्धिः अपि अवरोधनीया। उद्योगानामपशिष्टपदार्थस्य न्यूनीकरणाय पुनः चक्रणस्य चावश्यकता विद्यते। अपशिष्टस्य न्यूनीकरणार्थ निम्नांकिताः प्रयासा: समपेक्षिताः सन्ति-

  1. अपशिष्टपदार्थानां विवेकसम्मत उद्योगः,
  2. प्लास्टिकपदार्थानां प्रयोगावरोधः,
  3. मोटरकारवाहने उत्प्रेरक परिवर्तकस्य प्रयोगः,
  4. धूमरहित-चुल्हिकायाः व्यवहारः,
  5. कम्पोस्ट-उर्वरकस्य निर्माणे प्रेरणा प्रदानम्।

एते उपायाः निष्ठापूर्वकं व्यवहारे आनेयाः। अयमेव पन्थाः पर्यावरण-संरक्षणस्य मानव-मानवेता प्राणिनां त्राणस्य च।

2. भारतवर्षम् आघृत्य संस्कृत भाषायां

अस्माकं देशः भारतवर्ष विद्यते। अस्य प्रसारः हिमालयात् हिन्दमहासागरं पर्यन्तं तथा बङ्गसमुद्रात् अरबसागरं यावत् वर्तते। अत्र गंगा-यमुना-कावेरी-ब्रह्मपुत्रादयो नद्यः अमृततुल्यं तोयं वहन्ति काशीप्रयागहरिद्वारपुरीरामेश्वरादीनि तीर्थस्थानि सन्ति। मुम्बई-चेन्नै-कानपुर-कलकत्ता-भिलाई- दुर्गापुरादीपि उद्योगनगराणि प्रसिद्धध्यन्ति। अत्रैव राम-कृष्ण-द्रोण-कर्णादयो जाताः। तिलक-विवेकानन्द-गाँधी-नेहरू, पटेलादयः महापुरुषा अत्रैव समुत्पन्नाः। आयं देशः ग्रामप्रधानः कृषिप्रधानश्च मन्यते। देशेऽस्मिन् राष्ट्रभाषा हिन्दी विद्यते किन्तु अस्य प्राचीनसाहित्यम् संस्कृत एवं निधीयते।

3. कोऽप्युप्सवः अथवा होलिकोत्सवः

होलिकोत्सवः सर्वजनप्रियः उत्सवः अस्ति। अयं हिन्दूनां प्रसिद्धः अस्ति। आयं मनुष्यान् मत्तान्, मुग्धान्, प्रसन्नान् करोति। अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां भवति। होलिकोत्सवे -जनाः परस्परं रागरञ्जितजलं प्रक्षिपन्ति। जना कूर्दन्ति, नृत्यन्ति गायन्ति च। आबालवृद्धाः हास्य व्यंग्यमयैः संलापैः प्रसीदन्ति।

पुरा मूलत्राणनगरे हिरण्यकशिपुः नाम नास्तिकः राजा अभवत्। तस्य पुत्रः प्रह्लादः तु ईश्वर भक्तः अभवत्। हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत, परन्तुं प्रह्लादः ईश्वर-विमुखः नाभवत्। तदा हिरण्यकशिपुः स्वभगिनी होलिकां प्रह्लादस्य वधे न्ययोजयत्। अग्नौ होलिका तु भस्मसात् अभवत्, परन्तु ईश्वरभक्तः प्रह्लादः सुरक्षितः अतिष्ठतः। अन्ते च नृसिंहः हिरण्यकशिपुम् अमारयत्। होलिकादहनमुद्दिश्य होलिकोत्सवः प्रारब्धः। होलिकोत्सवे जनाः धारायन्त्रैः परस्परं अङ्गप्रक्षेपणेन आत्मनः आनन्दं प्रकटयन्ति।

4. पाटलिपुत्रम् अधिकृत्य संस्कृत भाषायां

उत्तरभारतं एक प्रसिद्ध नगरं विद्यते पाटलिपुत्रम्। इदम् ऐतिहासिकं नगरम् मगधशासकेन अजातशत्रुपा संस्थापितम्। कालान्तरे मगधराजस्य राजधानी अत्रैवाभूत्। गंगा-गण्डकयोः संगमस्थले अवस्थितमिदं नगरं कुसुमपुरं पुष्पपुरञ्चेति नाम्ना पुरा प्रख्यातिं जगाम्। क्रमेण पाटलिपुत्रमिति नाम प्रसिद्धम् अभवत्। सम्प्रति बिहारप्रदेशस्य राजधानी अत्रैव विद्यते। शासकीय कार्यालयः, सचिवालयः,
राजभवनम् विधानसभासदनम्, शैक्षिक कार्यासम्पादनार्थम् पटना विश्वविद्यालयः, चिकित्सामहाविद्यालयः खुदाबक्सपुसतकालयः जनानाम् आकर्षणस्थलानि भवन्ति। एवमेव गोलगृहम् तारानक्षत्रगृहम, महावीरमन्दिरम् गुरुगोविन्दसिंहजन्मस्थानम् च पाटलिपुत्रमागतानां नराणां दर्शनीयानि भवति।

5. संस्कृतभाषायाः गौरवम् महत्त्वं च
अथवा, संस्कृतिः संस्कृताश्रिता’

संस्कृतभाषा देवभाषा अस्ति। इयं भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा मधुरतमा च अस्ति। इयं न केवलं भारतस्यानेकासाम् भाषाणाम् जननी, अपितु केषाञ्चित् पण्डितानां मते एषा सर्वासामपि भाषाणामुद्गमः। संसारस्य प्राचीनतम् साहित्यं वेदाः संस्कृतभाषायामेव सन्ति। वैदिक साहित्यस्य पड़नेन वयम् आर्याणां संस्कृतिम् बोधामः। अस्यामेव भाषायां रामायणम्द्व महाभारतम्, इतिहास-पुराणनि, पञ्चतन्त्रम् जातककथाः, कथासरित्सागरः, कादम्बरी इत्यादयः ग्रन्थाः सन्ति। रामायणस्य महाभारतस्य च पठनेन वयं नैतिकानियमान् इतिहासम्, युद्धनीतिम्, धर्मनीतिम्, राजनीतिम् च बोधामः।

आंग्लदेशीयः कालिदासं शेक्सपीयरसदृशं नाटककारं वदन्ति। परन्तु मम विचारे कालिदासः उच्चतरः अस्ति। नाटकातिरिक्तं तस्य त्रीणि काव्यानि अपि अतिप्रसिद्धानि, तद्यथा-रघुवंशम्, कुमारसम्भवम्, मेघदूतम् च। कालिदासातिरिक्तं भासः, भवभूतिः, बाणः,भारवि, माघः हर्षः, दण्डी इत्यादयः अनेके कवयः लेखकाः नाटककाराः च संस्कृत-साहित्यस्य संवर्धनकुर्वन्। एतत, सत्यं यत् संस्कृतिः संस्कृताश्रिता।

6. हिमालयः

पर्वतराजः हिमालयः भारतस्य उत्तरस्यां दिशि वर्तते। अयं पर्वतः संसारे सर्वेभ्यः गिरिभ्यः । उन्नतोऽस्ति, अतः अयं पर्वतराज’ अपि कथ्यते। अस्य अनेकानि शिखराणि गगनं स्पृशन्ति। हिमालयः स्थितः शत्रुभ्यः भारत रक्षति।

दक्षिणसागरात् उत्थायं ये मेघाः आगच्छन्ति ते हिमालयस्य उच्चैः शिखरैः संघट्टयन्तः । परावर्तन्ते, भारतवर्ष भूमौ च वर्षन्ति।

हिमालयात् अनेकाः नद्यः प्रवहन्ति। तद्यथा-गङ्गा, यमुना, शतद्रु विपाशा, इरावती, चन्द्रभागा प्रभृतयः। एताः नद्यः भारतस्य भूसिञ्चने महत्यः उपयोगिन्यः सन्ति। वयं हिमालयदेव बहुविधं काष्ठम् औषधानिकं लभामहे। तथा च नानाविधानि बहुमूल्यानि रत्नानि च प्राप्नुमः। अस्मात् हिमालयः भारताय अतीव उपयोगी पर्वतः अस्ति।

अस्मिन गिरौ अनेकानि दर्शनीयनि तीर्थस्थानाति अपि सन्ति। प्रतिवर्षम् भक्ताः बदरीनाथ केदारनाथादिषु मन्दिरेषु भगवद्दर्शनं कुर्वन्ति वयं प्रतिज्ञां कुर्मः यत् आवश्यकतायां सत्याम् अस्य रक्षायां प्राणानपि दूक्ष्यामः।

7. सत्यमेव जयते नाऽनतम्

अथ किं सत्यम् इति प्रश्नः। तत्र उच्यते-“यथा दृष्टं, यथा श्रुतं यथा च मनसि अनुभूतं तथैव सत्यम्।” व्यावहारिके जीवने सत्यम् आश्रित्य ये जनाः कार्याणि कुर्वन्ति ते परेषां मनसि स्वविश्वासं सम्पादयन्ति, परिणामतः च सुखं लभन्ते।

सत्यवक्ता सदा उन्नतमस्तकः तिष्ठन्ति। ये असत्यव्यवहारं कुर्वन्ति, तान् कोऽपि विश्वसिति लोके तेषां प्रतिष्ठा न भवित। ते सदा भीताः तिष्ठन्ति। यदा रहस्योद्भेदः भवति तदा ते घृणास्पदाः भवन्ति सर्वेषु लौकिकव्यवहारेषु सत्यस्य आवश्यकता अस्ति। परिवारे, उद्योगे, व्यापारे, शासने सर्वत्र यशः प्राप्नोति।

सत्ये, सर्वेषां धर्माणाम् अन्तर्भावो भवति।. असत्यं हि सर्वदोषाणां पापानां च मूलम्। सत्येन मनुष्य महान् भक्ति यशः च लभते। रघुः हरिश्चन्द्रः, दशरथः सत्येन एव यशः अलभन्त। जनाः सत्यवादि बहु मन्यन्ते। ते तं विश्वसन्ति, तस्योदशं शिरोधार्यं कुर्वन्ति। बुद्धः, महावीर, ईसामसीह, लाजपतराय; दयानन्दः, विवेकानन्दः, रामतीर्थः, महात्मा गाँधी च सत्यवलेन एवं जनानां हृदयानि. अजयन्। असत्यमिदम्-‘सत्यमेव जयते, नाऽनृतम्।’

8. श्रीमदनमोहनमालवीयः

श्री मदनमोहनमालवीयस्य जन्म 1851 तमे खीष्टाब्दे प्रयागनगरे अभवत्। अस्य पिता धार्मिक ब्राह्मणः उपेदशकः च आसीत्।

बाल्ये मदनमोहनः संस्कृतपाठशालायाम् अपठत्। ततश्च प्रयागविश्वविद्यालामात् बी० ए० उपागृहीत्वा अध्यापकः अभवत्। अनन्तरम् अयं उच्चतरां शिक्षां गृहीत्वा महान् सम्पादकः, वाक्कीलः अनुपम च भाषणकर्ता अभवत्।

भारतीय संस्कृतेः रक्षार्थं असौ महाभागः वाराणस्यां ‘हिन्दू-विश्वविद्यालय इति नाम्ना महासंस्थानस्य स्थापनां कृतवान्। तदा च असौ एव तस्य संस्थानस्य प्रथमः कुलपतिः अभवत्। कतिपय वर्षान्तरं श्रीमालवीयः कांग्रेससंस्थायां प्रविष्ट अभवत्। असौ निर्मल-चरित्रः, भारतीयायाः सभ्यतान परमः भक्तः सत्यवक्ता, सुभाषणकर्ता आसीत् अतः शीघ्रमेव अखिल-भारतीयेषु नेतृषु अस्य गणना अभवत्।

महात्मा गाँधी मालवीयं स्वज्येष्ठभ्रातृतुल्यम् अमन्यत। यद्यपि अयं भारतीय-स्वाधीनतायाः पर समर्थकः तथापि अभवत् आंग्लाः शासकाः भारतीयाः जनाः च समकालमेव अस्य बहुसम्मानम् अकुर्वन् 1946 तमे वर्षे असौ परलोकमगच्छत्।

9. सदाचारः

सतामृ आचारः सदाचारः इति कथ्यते। सज्जनाः यानि-यानि सत्कार्याणि कुर्वन्ति, स सदाचार उच्यते। गुरुजनानां, सरलता, विनम्रता, सत्यभाषणम् इन्द्रियनिग्रहः आदि गुणानां गणना सदा भवति।

नरः कदापि असत्यं न वदेत्। परधनं न हरेत्। पापं न आचरेत्। मुखैः सह मित्रतां न कुर्यात् न वदेत्। अलसः न भूयात्। दयां कुर्यात्।

मनुष्यः बलेन ब्रह्मचर्य पालयेत्। स्वदेशाय, धर्माय कुलाय व प्राणानपि त्यजेत्। ईश्वरं भजेत्। समयातु हितं मधुरं च वदेत्। स्वहितं कदापि न त्यजेत्। निर्धनेभ्यः दानं यच्छेत्। विद्योपार्जने ध नोपार्जने च प्रयत्नशीलः स्यात्।

उक्तनियमानं पालनेन नराः सदाचारिणः उन्नतिशीलाः संसारे सम्मानिता: च भवन्ति। इह लोके ये सदाचारिणः पुरुषाः भवन्ति तेषाम् एव सर्वेजना आदरं कुर्वन्ति। अतः अस्माभिः अपि उक्तानां सदाचारनियमानां पालने तत्परैः भवियव्यम्।

10. दीपावली

दीपावली उत्सवः कार्त्तिकमासस्य अमावस्यायां तिथौ भवति। अमावस्यातः पूर्वमेव जनाः स्वेषां गृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति, शोभनैः चित्रैः क्रीडनकैश्च अलंकुर्वन्ति।

दीपावली दिवसे आपणे नानाप्रकाराणि मिष्टान्नानि सज्जितानि दृश्यन्ते। मृत्तिका-क्रीडनकानि. अपि सज्जितानि दृश्यन्ते। चित्राणां पंक्तयः च विपणेः शोभां वर्धयन्ति। रात्रौ च पकितबद्धै प्रज्वलितैः दीपैस्तु सुषमा मनोमुग्धकारिणी भवति। जनाः नवीन-वस्रधारिणीभिः सन्ततिभिः सह विपणेः शोभां पश्यन्तः स्व-स्व-गृहं गच्छन्ति।

बहुषु गृहेषु जनाः रात्रौ लक्ष्मीपूजनमपि कुर्वन्ति। लक्ष्मीदेव्याः प्रसादरूपेण मिष्टान्नानि भक्षयन्ति। बालाश्च बम्बविस्फौटैः, तारकाग्निकणैः च खेलन्तः तुष्यन्ति।

श्रीरामः रावणं हत्या सीतां ग्राम्य अस्मिन् दिने अयोध्याम् प्रत्यागच्छत्। अयोध्यावासिनश्च तत्प्रसन्नानायां रात्रौ दीपावली: प्राज्वालयन्। तदाप्रभृति अद्यावधि भारतीयाः इमम् उत्सवम् सोल्लासं सानन्दं मानयन्ति।

11. परोपकारः अथवा, परोपकारायसतां विभूतय

मनसा वाचा कर्मणा परेषाम् उपकाराय कृतं कर्म ‘परोपकार:’ कथ्यते। ते एव पुरुषा धन्याः परार्थे कर्म कुर्वन्ति। यो जनः अन्येभ्यो न किञ्चिदपिदत्त्वा स्वयमेव भक्षयति, स पापी अस्ति।

पश्यन्तु, प्रकृतेः बहूनि वस्तूनि सर्वेषाम् उपकारं कुर्वन्ति, तद्यथा–वृक्षाः परोपकाराय फलन्ति, नद्यः परोपकाराय वहन्ति, गावश्च परोपकाराय दुहन्ति। सूर्यचन्द्रमसौ परेभ्यः एव प्रकाशेते। पृथ्वी परोपकाराय एव अन्नम् उत्पादयति। मेघाः परोपकाराय एव वर्षन्ति। किं बहुनाः, सज्जनानां विभूतयः परोपकाराय भवन्ति। अत: मानवेभ्यः उचितम् यत् तेऽपि यथाशक्ति धनेन, अन्नेन, वस्त्रैः, शरीरेण च निर्धमानाम्, असमर्थानां दु:खितानां पुरुषाणां साहाय्यं कुर्वन्तु। अनेन परोपकारेण ते संसारे यज्ञः सुखं न लप्स्यन्ते, परत्र सद्गतिम्। भारतीया संस्कृतिः प्राचीनकालात् एवं परोपकारप्रधाना अस्ति।

12. गृहोद्यानम्

अस्माकं गृहस्य पृष्ठभागे गृहोद्यानम् अस्ति। इदं मम मात्रा पित्रा च बहुयत्नेन निर्मितम् अस्ति। अस्मिन् पेक्षा पादपाः, अनेकाश्च लता: आरोपितः सन्ति। एतेषा कुसुमानि गृहस्य वायुमण्डलं सुग्रन्धेन फूयन्ति। अंत्र एक: आम्रपादपः, पञ्च निम्बुक-पादपाः, त्रयश्च जम्बूपादपाः सन्ति। एकः दृढ़वीजवृक्षः (अमरूद) अपि अस्ति। अस्मिन् उद्याने शतपत्री, गन्धराजः, मल्लिका, सूर्यमुखी जनानां मनः हरन्ति। अत्र एक दाडिमस्य, एकः जम्बीरस्य, एकः च नारङ्गस्य अपि वृक्षः। एते समयेन फलन्ति। अहं सायंकाले वृक्षाणां रोपणे, रक्षणे, सिञ्चने च अतिपरिश्रमं करोमि। अस्माकम् उद्याने विविधानि फलानि, अनेके शाकाः विविधवर्णानि च पुष्पाणि सन्ति। उद्याने कार्यं कृत्वा. अहं प्रसीदामि। एतेन पादपैः, वृक्षैः लताभिः च मम परिचयः भवति। कार्यकारणात् मम व्यायामः अपि भवति।

13. अनुशासनम्

अनु पश्चात् यत् कर्त्तव्यं भवति तदेव अनुशासनम् अस्ति। विद्यालयस्य, नगरस्य, देशस्य, संस्थायाः वा ये ये नियमाः भवन्ति तेषां पालनं तद्नुसारम् आचरणम् ‘अनुशासन’ शब्दस्य अर्थः। सामाजिकानां नियमानां परिपालनाभावे सर्वेषाम् एव जनानां हानिः भवति एवं सामाजिकशास्त्रस्य पालनम् एवं अनुशासनम् अस्ति।

विद्यालये यथासमयम् आगमनम्, नियतं परिधानधारणम् अपशब्दानाम् नोच्चारणम्, गुरुणाम् आज्ञापालनम् वृद्धानां सम्मानश्च।
देशस्य अपि अनुशासन-नियमाः सन्ति-राजमार्गस्य वामहस्ते चलनम् यानारोहणकाले चिकिटकाग्रहणम् सर्वत्र स्ववारानुसारं पंक्तौ स्थितिः, परधनस्य अचौर्यम्, स्वजीवन-रक्षणम्, परेषां जीवनानां नापहरणम्, अथ च ये ये नियमाः लोकसभया पारिताः सन्ति तेषां परिपालनम्।

अद्यत्वे स्वतन्त्रे भारते बहुषु छात्रेषु नागरिकंषु च अनुशासनहीतना दृश्यते। अनुशासनहीनताः छात्राः स्वबहुमूल्यं समयं विनाशयन्ति। नागरिकाश्च कुकृत्यैः बन्दीभूय बहुवर्षाणि यावत् कारागारस्य। कष्टानि अनुभवन्ति। अनुशासनहीनः स्वजीवने असफलः भवति, अत: छात्रैः नागरिकैश्च स्वहितस्य देशहितस्य च कामनया सदैव अनुशासनं पालनीयम्।

14. बुद्धिर्यस्य बलं तस्य

“बुद्धिर्यस्य बलम् तस्य’ इंति वाक्यम् नीतिपरकम्। विष्णुशर्माणा स्वग्रन्थे इहम् वाक्यम् आधृत्य एका कथा लिखिता अस्ति। तत्र तेनोक्तम् यत् बुद्धिप्रभावद् एव क्षुद्रशशकेन वरराजः सिंह व्यापादितः। वस्तुतः यस्य पार्श्वे बुद्धिः अस्ति सः कठिनादपि कठिनम् कार्यम् अति सुलभेन कर्तुम् शक्नोति। श्रूयते यत् बुद्धि प्रभावाह् एव गणेशः सर्वश्रेष्ठदेवरूपेण अधिष्ठितः। अतः इहम् वाक्यम् अस्माभिः सर्वदा स्मरणीयम्।

15. देशभक्तिः
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

जन्मभूमिः अस्माकं मातृतुल्या वर्तते। माता तु कानिचिद् वर्षाणि एवं पुत्रस्य पुत्र्यः वा सेवां करोति परन्तु मातृभूमिः वाल्यादारभ्य आजीवनम् बहुविधैः उपायैः अस्मान् रक्षति।

मातृभूमिः अस्मभ्यम् नानाविधानिक अन्नानि फलानि च यच्छति। इयम् अस्माकं वस्रेभ्यः कार्पासादिकं दत्त्वा शरीराणि अपि शोभनैः वनैः आवृणोति। वयं मातृभूमेः स्रोतेभ्यः जलं पिबामः, भूमेः मृत्तिकथा भवनानि रचयामः। नानाविधान् धातून रत्नानि च पृथिव्याः एव उभामहे।